७.२९.३०

एतस्मिन्नन्तरे चापि सर्वे सुरगणास्तदा ।
अभ्यद्रवन्सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः ॥

पदच्छेदः

एतस्मिन्न्एतद् (७.१)
अन्तरेअन्तर (७.१)
चापि (अव्ययः)–अपि (अव्ययः)
सर्वेसर्व (१.३)
सुरगणास्तदासुर–गण (१.३)–तदा (अव्ययः)
अभ्यद्रवन्अभ्यद्रवन् (√अभि-द्रु लङ् प्र.पु. बहु.)
सुसंक्रुद्धासु (अव्ययः)–संक्रुद्ध (√सम्-क्रुध् + क्त, १.३)
रावणंरावण (२.१)
शस्त्रवृष्टिभिःशस्त्र–वृष्टि (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मि न्नन्त रे चापि
र्वेसु णास्त दा
भ्यद्रन्सु सं क्रु द्धा
रा णंस्त्र वृष्टि भिः