७.२९.३१

रावणस्तु समासाद्य वस्वादित्यमरुद्गणान् ।
न शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः ॥

पदच्छेदः

रावणस्तुरावण (१.१)–तु (अव्ययः)
समासाद्यसमासाद्य (√समा-सादय् + ल्यप्)
वस्वादित्यमरुद्गणान्वसु–आदित्य–मरुत्–गण (२.३)
(अव्ययः)
शशाकशशाक (√शक् लिट् प्र.पु. एक.)
रणेरण (७.१)
स्थातुंस्थातुम् (√स्था + तुमुन्)
(अव्ययः)
योद्धुंयोद्धुम् (√युध् + तुमुन्)
शस्त्रपीडितःशस्त्र–पीडित (√पीडय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्तु मा साद्य
स्वा दित्य रुद्ग णान्
शा णे स्था तुं
यो द्धुंस्त्र पीडि तः