७.३.१२

अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ॥

M N Dutt

Then the highly energetic Brahmā along with the Indra and the celestials, coming to that asylum, addressed (Vaisravana), saying, '० child, I am well-pleased with you for this act of your, O you of excellent vows. Do you, good betide you, ask for the 'boon (that you would have), for, O magnanimous one, you are worthy of a boon.'

पदच्छेदः

अथअथ (अव्ययः)
प्रीतोप्रीत (√प्री + क्त, १.१)
महातेजाःमहत्–तेजस् (१.१)
सेन्द्रैः (अव्ययः)–इन्द्र (३.३)
सुरगणैःसुर–गण (३.३)
सहसह (अव्ययः)
गत्वागत्वा (√गम् + क्त्वा)
तस्याश्रमपदंतद् (६.१)–आश्रम–पद (२.१)
ब्रह्मेदंब्रह्मन् (१.१)–इदम् (२.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्री तो हा ते जाः
से न्द्रैःसु णैः
त्वा स्याश्र दं
ब्र ह्मे दं वाक्यब्र वीत्