७.३.२९

अथ तत्रावसत्प्रीतो धर्मात्मा नैरृताधिपः ।
समुद्रपरिधानायां लङ्कायां विश्रवात्मजः ॥

पदच्छेदः

अथअथ (अव्ययः)
तत्रावसत्तत्र (अव्ययः)–अवसत् (√वस् लङ् प्र.पु. एक.)
प्रीतोप्रीत (√प्री + क्त, १.१)
धर्मात्माधर्म–आत्मन् (१.१)
नैरृताधिपःनैरृत–अधिप (१.१)
समुद्रपरिधानायांसमुद्र–परिधान (७.१)
लङ्कायांलङ्का (७.१)
विश्रवात्मजःविश्रवस्–आत्मज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रा त्प्री तो
र्मा त्मा नैरृ ताधि पः
मुद्ररि धा ना यां
ङ्का यां विश्र वात्म जः