७.३.३०

काले काले विनीतात्मा पुष्पकेण धनेश्वरः ।
अभ्यगच्छत्सुसंहृष्टः पितरं मातरं च सः ॥

पदच्छेदः

कालेकाल (७.१)
कालेकाल (७.१)
विनीतात्माविनीत (√वि-नी + क्त)–आत्मन् (१.१)
पुष्पकेणपुष्पक (३.१)
धनेश्वरःधनेश्वर (१.१)
अभ्यगच्छत्अभ्यगच्छत् (√अभि-गम् लङ् प्र.पु. एक.)
सुसंहृष्टःसु (अव्ययः)–संहृष्ट (√सम्-हृष् + क्त, १.१)
पितरंपितृ (२.१)
मातरंमातृ (२.१)
(अव्ययः)
सःतद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का ले का लेवि नी ता त्मा
पुष्प के नेश्व रः
भ्य च्छत्सु सं हृ ष्टः
पि रं मा रं सः