७.३.३

ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महानृषिः ।
ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम् ॥

पदच्छेदः

ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
तस्यतद् (६.१)
तुतु (अव्ययः)
तद्वृत्तंतद् (२.१)–वृत्त (२.१)
भरद्वाजोभरद्वाज (१.१)
महान्महत् (१.१)
ऋषिःऋषि (१.१)
ददौददौ (√दा लिट् प्र.पु. एक.)
विश्रवसेविश्रवस् (४.१)
भार्यांभार्या (२.१)
स्वांस्व (२.१)
सुतांसुता (२.१)
देववर्णिनीम्देववर्णिनी (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्ञा त्वास्यतु द्वृ त्तं
द्वा जो हानृ षिः
दौ विश्र से भा र्यां
स्वांसु तां देर्णि नीम्