७.३.४

प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ।
मुदा परमया युक्तो विश्रवा मुनिपुंगवः ॥

पदच्छेदः

प्रतिगृह्यप्रतिगृह्य (√प्रति-ग्रह् + ल्यप्)
तुतु (अव्ययः)
धर्मेणधर्म (३.१)
भरद्वाजसुतांभरद्वाज–सुता (२.१)
तदातदा (अव्ययः)
मुदामुद् (३.१)
परमयापरम (३.१)
युक्तोयुक्त (√युज् + क्त, १.१)
विश्रवाविश्रवस् (१.१)
मुनिपुंगवःमुनि–पुंगव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रति गृह्यतु र्मे
द्वासु तां दा
मु दा या यु क्तो
विश्र वामुनि पुं वः