७.३.३१

स देवगन्धर्वगणैरभिष्टुत;स्तथैव सिद्धैः सह चारणैरपि ।
गभस्तिभिः सूर्य इवौजसा वृतः; पितुः समीपं प्रययौ श्रिया वृतः ॥

पदच्छेदः

तद् (१.१)
देवगन्धर्वगणैर्देव–गन्धर्व–गण (३.३)
अभिष्टुतस्अभिष्टुत (√अभि-स्तु + क्त, १.१)
तथैवतथा (अव्ययः)–एव (अव्ययः)
सिद्धैःसिद्ध (३.३)
सहसह (अव्ययः)
चारणैर्चारण (३.३)
अपिअपि (अव्ययः)
गभस्तिभिःगभस्ति (३.३)
सूर्यसूर्य (१.१)
इवौजसाइव (अव्ययः)–ओजस् (३.१)
वृतःवृत (√वृ + क्त, १.१)
पितुःपितृ (६.१)
समीपंसमीप (२.१)
प्रययौप्रययौ (√प्र-या लिट् प्र.पु. एक.)
श्रियाश्री (३.१)
वृतःवृत (√वृ + क्त, १.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
दे न्धर्व णै भिष्टु
स्त थै सि द्धैः चा णैपि
स्ति भिः सूर्य वौ सावृ तः
पि तुः मी पंप्र यौश्रि यावृ तः