७.३.६

तस्मिञ्जाते तु संहृष्टः स बभूव पितामहः ।
नाम चास्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ॥

पदच्छेदः

तस्मिञ्तद् (७.१)
जातेजात (√जन् + क्त, ७.१)
तुतु (अव्ययः)
संहृष्टःसंहृष्ट (√सम्-हृष् + क्त, १.१)
तद् (१.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
पितामहःपितामह (१.१)
नामनामन् (२.१)
चास्याकरोत् (अव्ययः)–इदम् (६.१)–अकरोत् (√कृ लङ् प्र.पु. एक.)
प्रीतःप्रीत (√प्री + क्त, १.१)
सार्धंसार्धम् (अव्ययः)
देवर्षिभिस्तदादेव–ऋषि (३.३)–तदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मि ञ्जा तेतु सं हृ ष्टः
भूपि ता हः
ना चा स्या रो त्प्री तः
सा र्धं देर्षि भिस्त दा