७.३.७

यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव ।
तस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः ॥

पदच्छेदः

यस्माद्यस्मात् (अव्ययः)
विश्रवसोविश्रवस् (६.१)
ऽपत्यंअपत्य (१.१)
सादृश्याद्सादृश्य (५.१)
विश्रवाविश्रवस् (१.१)
इवइव (अव्ययः)
तस्माद्तस्मात् (अव्ययः)
वैश्रवणोवैश्रवण (१.१)
नामनाम (अव्ययः)
भविष्यत्येषभविष्यति (√भू लृट् प्र.पु. एक.)–एतद् (१.१)
विश्रुतःविश्रुत (√वि-श्रु + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मा द्विश्र सो ऽप त्यं
सा दृ श्या द्विश्र वा
स्मा द्वैश्र णो ना
वि ष्य त्ये विश्रु तः