७.३.९

तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।
चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः ॥

M N Dutt

And as he was staying in the hermitage, that high-souled one thought, 'I shall practice prime righteousness: verily virtue is the supreme way.'

पदच्छेदः

तस्याश्रमपदस्थस्यतद् (६.१)–आश्रम–पद–स्थ (६.१)
बुद्धिर्बुद्धि (१.१)
जज्ञेजज्ञे (√जन् लिट् प्र.पु. एक.)
महात्मनःमहात्मन् (६.१)
चरिष्येचरिष्ये (√चर् लृट् उ.पु. )
नियतोनियत (√नि-यम् + क्त, १.१)
धर्मंधर्म (२.१)
धर्मोधर्म (१.१)
हिहि (अव्ययः)
परमापरम (१.१)
गतिःगति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्याश्र स्थस्य
बु द्धि र्ज ज्ञे हात्म नः
रि ष्येनि तो र्मं
र्मोहि मा तिः