७.३०.१०

अथाब्रवीत्स तत्रस्थमिन्द्रजित्पद्मसंभवम् ।
श्रूयतां या भवेत्सिद्धिः शतक्रतुविमोक्षणे ॥

पदच्छेदः

अथाब्रवीत्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
तद् (१.१)
तत्रस्थम्तत्रस्थ (२.१)
इन्द्रजित्इन्द्रजित् (१.१)
पद्मसंभवम्पद्मसंभव (२.१)
श्रूयतांश्रूयताम् (√श्रु प्र.पु. एक.)
यायद् (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
सिद्धिःसिद्धि (१.१)
शतक्रतुविमोक्षणेशतक्रतु–विमोक्षण (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थाब्र वीत्स त्रस्थ
मिन्द्र जि त्पद्म सं वम्
श्रू तां या वे त्सि द्धिः
क्रतुवि मोक्ष णे