७.३०.९

अब्रवीत्तु तदा देवो रावणिं कमलोद्भवः ।
नास्ति सर्वामरत्वं हि केषांचित्प्राणिनां भुवि ॥

पदच्छेदः

अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
तुतु (अव्ययः)
तदातदा (अव्ययः)
देवोदेव (१.१)
रावणिंरावणि (२.१)
कमलोद्भवःकमलोद्भव (१.१)
नास्ति (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
सर्वामरत्वंसर्व–अमर–त्व (१.१)
हिहि (अव्ययः)
केषांचित्कश्चित् (६.३)
प्राणिनांप्राणिन् (६.३)
भुविभू (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्र वीत्तु दा दे वो
रा णिं लोद्भ वः
नास्ति र्वा त्वंहि
के षां चि त्प्राणि नांभुवि