७.३०.२

तं रावणं समासाद्य पुत्रभ्रातृभिरावृतम् ।
अब्रवीद्गगने तिष्ठन्सान्त्वपूर्वं प्रजापतिः ॥

M N Dutt

Having obtained Rāvana encircled by his sons and brothers the Patriarch, stationed in the welkin, calmly said.

पदच्छेदः

तंतद् (२.१)
रावणंरावण (२.१)
समासाद्यसमासाद्य (√समा-सादय् + ल्यप्)
पुत्रभ्रातृभिर्पुत्र–भ्रातृ (३.३)
आवृतम्आवृत (√आ-वृ + क्त, २.१)
अब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
गगनेगगन (७.१)
तिष्ठन्तिष्ठत् (√स्था + शतृ, १.१)
सान्त्वपूर्वंसान्त्व–पूर्वम् (अव्ययः)
प्रजापतिःप्रजापति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं रा णं मा साद्य
पु त्र भ्रातृभि रावृ तम्
ब्र वीद्ग ने तिष्ठ
न्सान्त्व पू र्वंप्र जा तिः