७.३०.२६

त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेः ।
दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ॥

M N Dutt

But being enraged and possessed by lust you did repair to the hermitage of the ascetic and see her resplendent like the flaming fire.

पदच्छेदः

त्वंत्वद् (१.१)
क्रुद्धस्त्विहक्रुद्ध (√क्रुध् + क्त, १.१)–तु (अव्ययः)–इह (अव्ययः)
कामात्माकाम–आत्मन् (१.१)
गत्वागत्वा (√गम् + क्त्वा)
तस्याश्रमंतद् (६.१)–आश्रम (२.१)
मुनेःमुनि (६.१)
दृष्टवांश्चदृष्टवत् (√दृश् + क्तवतु, १.१)–च (अव्ययः)
तदातदा (अव्ययः)
तांतद् (२.१)
स्त्रींस्त्री (२.१)
दीप्ताम्दीप्त (√दीप् + क्त, २.१)
अग्निशिखाम्अग्नि–शिखा (२.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वं क्रु द्धस्त्वि का मा त्मा
त्वा स्याश्र मंमु नेः
दृष्ट वांश्च दा तां स्त्रीं
दी प्ताग्निशि खामि