७.३०.३२

न च ते स्थावरं स्थानं भविष्यति पुरंदर ।
एतेनाधर्मयोगेन यस्त्वयेह प्रवर्तितः ॥

पदच्छेदः

(अव्ययः)
(अव्ययः)
तेत्वद् (६.१)
स्थावरंस्थावर (१.१)
स्थानंस्थान (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
पुरंदरपुरंदर (८.१)
एतेनाधर्मयोगेनएतद् (३.१)–अधर्म–योग (३.१)
यस्त्वयेहयद् (१.१)–त्वद् (३.१)–इह (अव्ययः)
प्रवर्तितःप्रवर्तित (√प्र-वर्तय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते स्था रं स्था नं
विष्यतिपु रं
ते नार्म यो गे
स्त्व येप्रर्ति तः