७.३०.३७

तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ।
शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपागतम् ॥

पदच्छेदः

तदातदा (अव्ययः)
प्रभृतिप्रभृति (अव्ययः)
भूयिष्ठंभूयिष्ठ (२.१)
प्रजाप्रजा (१.३)
रूपसमन्विताःरूप–समन्वित (१.३)
शापोत्सर्गाद्धिशाप–उत्सर्ग (५.१)–हि (अव्ययः)
तस्येदंतद् (६.१)–इदम् (१.१)
मुनेःमुनि (६.१)
सर्वम्सर्व (१.१)
उपागतम्उपागत (√उपा-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दाप्रभृति भू यि ष्ठं
प्र जा रून्वि ताः
शा पो त्स र्गाद्धि स्ये दं
मु नेःर्वमु पा तम्