७.३०.३८

तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ।
येन त्वं ग्रहणं शत्रोर्गतो नान्येन वासव ॥

पदच्छेदः

तत्तद् (२.१)
स्मरस्मर (√स्मृ लोट् म.पु. )
त्वंत्वद् (१.१)
महाबाहोमहत्–बाहु (८.१)
दुष्कृतंदुष्कृत (१.१)
यत्यद् (१.१)
त्वयात्वद् (३.१)
कृतम्कृत (√कृ + क्त, १.१)
येनयद् (३.१)
त्वंत्वद् (१.१)
ग्रहणंग्रहण (२.१)
शत्रोर्शत्रु (६.१)
गतोगत (√गम् + क्त, १.१)
नान्येन (अव्ययः)–अन्य (३.१)
वासववासव (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्स्म त्वं हा बा हो
दुष्कृ तंत्त्व याकृ तम्
ये त्वंग्र णं त्रो
र्ग तो ना न्ये वा