७.३०.३९

शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः ।
पावितस्तेन यज्ञेन यास्यसि त्रिदिवं ततः ॥

पदच्छेदः

शीघ्रंशीघ्रम् (अव्ययः)
यजस्वयजस्व (√यज् लोट् म.पु. )
यज्ञंयज्ञ (२.१)
त्वंत्वद् (१.१)
वैष्णवंवैष्णव (२.१)
सुसमाहितःसु (अव्ययः)–समाहित (१.१)
पावितस्तेनपावित (√पावय् + क्त, १.१)–तद् (३.१)
यज्ञेनयज्ञ (३.१)
यास्यसियास्यसि (√या लृट् म.पु. )
त्रिदिवंत्रिदिव (२.१)
ततःततस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शी घ्रंस्व ज्ञं त्वं
वैष्ण वंसु माहि तः
पावि स्ते ज्ञे
यास्य सित्रिदि वं तः