७.३०.४१

एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ।
पुनस्त्रिदिवमाक्रामदन्वशासच्च देवताः ॥

M N Dutt

Hearing this and having celebrated the sacrifice in honour of Vişnu he again went to the region of celestials and reigned there as their king.

पदच्छेदः

एतच्छ्रुत्वाएतद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
महेन्द्रस्तुमहत्–इन्द्र (१.१)–तु (अव्ययः)
यज्ञम्यज्ञ (२.१)
इष्ट्वाइष्ट्वा (√यज् + क्त्वा)
(अव्ययः)
वैष्णवम्वैष्णव (२.१)
पुनस्त्रिदिवम्पुनर् (अव्ययः)–त्रिदिव (२.१)
आक्रामद्आक्रामत् (√आ-क्रम् लङ् प्र.पु. एक.)
अन्वशासच्चअन्वशासत् (√अनु-शास् लङ् प्र.पु. एक.)–च (अव्ययः)
देवताःदेवता (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वा हे न्द्रस्तु
ज्ञ मि ष्ट्वा वैष्ण वम्
पुस्त्रिदि मा क्रा
न्व शाच्च दे ताः