७.३०.५

अयं च पुत्रोऽतिबलस्तव रावण रावणिः ।
इन्द्रजित्त्विति विख्यातो जगत्येष भविष्यति ॥

M N Dutt

O Rāvana, this your son is highly powerful and gifted with great strength and he shall be celebrated in the world under the appellation of 'Indrajit' or the conqueror of Indra.

पदच्छेदः

अयंइदम् (१.१)
(अव्ययः)
पुत्रोपुत्र (१.१)
ऽतिबलस्तवअतिबल (१.१)–त्वद् (६.१)
रावणरावण (८.१)
रावणिःरावणि (१.१)
इन्द्रजित्इन्द्रजित् (१.१)
त्वितितु (अव्ययः)–इति (अव्ययः)
विख्यातोविख्यात (√वि-ख्या + क्त, १.१)
जगत्येषजगन्त् (७.१)–एतद् (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यं पु त्रोऽति
स्त रा रा णिः
न्द्र जित्त्विति वि ख्या तो
त्ये विष्यति