७.३०.६

बलवाञ्शत्रुनिर्जेता भविष्यत्येष राक्षसः ।
यमाश्रित्य त्वया राजन्स्थापितास्त्रिदशा वशे ॥

M N Dutt

The Raksasa shall be powerful and irrepressible, by those help, O King, the celestials have been brought under your subjection.

पदच्छेदः

बलवाञ्शत्रुनिर्जेताबलवत् (१.१)–शत्रु–निर्जेतृ (१.१)
भविष्यत्येषभविष्यति (√भू लृट् प्र.पु. एक.)–एतद् (१.१)
राक्षसःराक्षस (१.१)
यम्यद् (२.१)
आश्रित्यआश्रित्य (√आ-श्रि + ल्यप्)
त्वयात्वद् (३.१)
राजन्राजन् (८.१)
स्थापितास्त्रिदशास्थापित (√स्थापय् + क्त, १.३)–त्रिदश (१.३)
वशेवश (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा ञ्शत्रु नि र्जे ता
वि ष्य त्ये राक्ष सः
मा श्रि त्यत्व या रा
न्स्थापि तास्त्रि शा शे