७.३१.१

ततो रामो महातेजा विस्मयात्पुनरेव हि ।
उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥

M N Dutt

Thereupon having bowed to Agastya the foremost of ascetics, the highly effulgent Rāma again surprisingly said.

पदच्छेदः

ततोततस् (अव्ययः)
रामोराम (१.१)
महातेजामहत्–तेजस् (१.१)
विस्मयात्विस्मय (५.१)
पुनर्पुनर् (अव्ययः)
एवएव (अव्ययः)
हिहि (अव्ययः)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
प्रणतोप्रणत (√प्र-नम् + क्त, १.१)
वाक्यम्वाक्य (२.१)
अगस्त्यम्अगस्त्य (२.१)
ऋषिसत्तमम्ऋषि–सत्तम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो रा मो हा ते जा
विस्म यात्पु रेहि
वाप्र तो वाक्य
स्त्यमृषित्त मम्