७.३१.२

भगवन्किं तदा लोकाः शून्या आसन्द्विजोत्तम ।
धर्षणां यत्र न प्राप्तो रावणो राक्षसेश्वरः ॥

M N Dutt

"O Brāhmaṇa, O foremost of twice-born ones, when that cruel Rāvana journeyed over the earth, was it void of people? Was there no king, or prince on earth to administer punishment to him?

पदच्छेदः

भगवन्भगवत् (८.१)
किं (१.१)
तदातदा (अव्ययः)
लोकाःलोक (१.३)
शून्याशून्य (१.३)
आसन्आसन् (√अस् लङ् प्र.पु. बहु.)
द्विजोत्तमद्विजोत्तम (८.१)
धर्षणांधर्षण (२.१)
यत्रयत्र (अव्ययः)
(अव्ययः)
प्राप्तोप्राप्त (√प्र-आप् + क्त, १.१)
रावणोरावण (१.१)
राक्षसेश्वरःराक्षसेश्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्किं दा लो काः
शू न्यान्द्वि जोत्त
र्ष णांत्र प्रा प्तो
रा णो राक्ष सेश्व रः