७.३१.१०

रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण तु ।
ममागमनमव्यग्रैर्युष्माभिः संनिवेद्यताम् ॥

पदच्छेदः

रावणोरावण (१.१)
ऽहम्मद् (१.१)
अनुप्राप्तोअनुप्राप्त (√अनुप्र-आप् + क्त, १.१)
युद्धेप्सुर्युद्ध–ईप्सु (१.१)
नृवरेणनृवर (३.१)
तुतु (अव्ययः)
ममागमनम्मद् (६.१)–आगमन (१.१)
अव्यग्रैर्अव्यग्र (३.३)
युष्माभिःत्वद् (३.३)
संनिवेद्यताम्संनिवेद्यताम् (√संनि-वेदय् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा णोऽह नु प्रा प्तो
यु द्धे प्सुर्नृ रेतु
मा व्य ग्रै
र्यु ष्मा भिः संनि वेद्य ताम्