७.३१.१८

चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः ।
उष्णाभितप्तैस्तृषितैः संक्षोभितजलाशयाम् ॥

पदच्छेदः

चलोपलजलांचल–उपल–जल (२.१)
पुण्यांपुण्य (२.१)
पश्चिमोदधिगामिनीम्पश्चिम–उदधि–गामिन् (२.१)
महिषैःमहिष (३.३)
सृमरैःसृमर (३.३)
सिंहैःसिंह (३.३)
शार्दूलर्क्षगजोत्तमैःशार्दूल–ऋक्ष–गज–उत्तम (३.३)
उष्णाभितप्तैस्तृषितैःउष्ण–अभितप्त (√अभि-तप् + क्त, ३.३)–तृषित (३.३)
संक्षोभितजलाशयाम्संक्षोभित (√सम्-क्षोभय् + क्त)–जल–आशय (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
लो लां पु ण्यांश्चि मो
धि गामि नीम्हि षैःसृ रैः सिं हैः
शा र्दूर्क्ष जोत्त मैः ष्णाभि
प्तैस्तृषि तैः सं क्षोभि ला याम्