७.३१.२४

ततः सलीलं प्रहसान्रावणो राक्षसाधिपः ।
उवाच सचिवांस्तत्र मारीचशुकसारणान् ॥

पदच्छेदः

ततःततस् (अव्ययः)
सलीलं (अव्ययः)–लीला (२.१)
प्रहसन्प्रहसत् (√प्र-हस् + शतृ, १.१)
रावणोरावण (१.१)
राक्षसाधिपःराक्षस–अधिप (१.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
सचिवांस्तत्रसचिव (२.३)–तत्र (अव्ययः)
मारीचशुकसारणान्मारीच–शुक–सारण (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः ली लंप्र सा
न्रा णो राक्ष साधि पः
वाचि वां स्तत्र
मा रीशु सा णान्