७.३१.३६

पुष्पेषूपहृतेष्वेव रावणो राक्षसेश्वरः ।
अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥

M N Dutt

Flowers being thus collected, Rāvana, the king of Rākşasas descended into the Narmadā for bathing like a huge elephant into the Gangā. And having bathed he got up, reciting excellent incantations.

पदच्छेदः

पुष्पेषूपहृतेष्वेवपुष्प (७.३)–उपहृत (√उप-हृ + क्त, ७.३)–एव (अव्ययः)
रावणोरावण (१.१)
राक्षसेश्वरःराक्षसेश्वर (१.१)
अवतीर्णोअवतीर्ण (√अव-तृ + क्त, १.१)
नदींनदी (२.१)
स्नातुंस्नातुम् (√स्ना + तुमुन्)
गङ्गाम्गङ्गा (२.१)
इवइव (अव्ययः)
महागजःमहत्–गज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु ष्पे षूहृ ते ष्वे
रा णो राक्ष सेश्व रः
ती र्णो दीं स्ना तुं
ङ्गामि हा जः