७.३१.३८

रावणं प्राञ्जलिं यान्तमन्वयुः सप्तराक्षसाः ।
यत्र यत्र स याति स्म रावणो राक्षसाधिपः ।
जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ॥

पदच्छेदः

रावणंरावण (२.१)
प्राञ्जलिंप्राञ्जलि (२.१)
यान्तम्यान्त् (√या + शतृ, २.१)
अन्वयुःअन्वयुः (√अनु-या प्र.पु. बहु.)
सप्तराक्षसाःसप्तन्–राक्षस (१.३)
यत्रयत्र (अव्ययः)
यत्रयत्र (अव्ययः)
तद् (१.१)
यातियाति (√या लट् प्र.पु. एक.)
स्मस्म (अव्ययः)
रावणोरावण (१.१)
राक्षसाधिपःराक्षस–अधिप (१.१)
जाम्बूनदमयंजाम्बूनद–मय (१.१)
लिङ्गंलिङ्ग (१.१)
तत्रतत्र (अव्ययः)
तत्रतत्र (अव्ययः)
स्मस्म (अव्ययः)
नीयतेनीयते (√नी प्र.पु. एक.)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
रा णं प्राञ्ज लिं यान्तन्व युः
प्त राक्ष साःत्रत्र या तिस्म
रा णो राक्ष साधि पः जा म्बू
यं लि ङ्गंत्र त्रस्म नी ते