७.३१.३९

वालुकवेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः ।
अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ॥

M N Dutt

Thereupon Rāvaņa placed that upon a heap of sands and began to worship it with various nectar-smelling flowers and sandal.

पदच्छेदः

वालुकावेदिमध्येवालुका–वेदि–मध्ये (अव्ययः)
तुतु (अव्ययः)
तल्लिङ्गंतद् (२.१)–लिङ्ग (२.१)
स्थाप्यस्थाप्य (√स्थापय् + क्त्वा)
रावणःरावण (१.१)
अर्चयामासअर्चयामास (√अर्चय् प्र.पु. एक.)
गन्धैश्चगन्ध (३.३)–च (अव्ययः)
पुष्पैश्चामृतगन्धिभिःपुष्प (३.३)–च (अव्ययः)–अमृत–गन्धिन् (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वालु वेदि ध्येतु
ल्लि ङ्गं स्थाप्य रा णः
र्च या मा न्धैश्च
पु ष्पै श्चामृन्धि भिः