७.३१.६

ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ।
संप्राप्तो यत्र साम्निध्यं परमं वसुरेतसः ॥

पदच्छेदः

ततोततस् (अव्ययः)
माहिष्मतींमाहिष्मती (२.१)
नामनाम (अव्ययः)
पुरींपुरी (२.१)
स्वर्गपुरीप्रभाम्स्वर्गपुरी–प्रभा (२.१)
सम्प्राप्तोसम्प्राप्त (√सम्प्र-आप् + क्त, १.१)
यत्रयत्र (अव्ययः)
सांनिध्यंसांनिध्य (२.१)
परमंपरम (२.१)
वसुरेतसःवसुरेतस् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो मा हिष्म तीं ना
पु रीं स्वर्गपु रीप्र भाम्
सं प्रा प्तोत्र सा म्नि ध्यं
मंसु रे सः