७.३१.७

तुल्य आसीन्नृपस्तस्य प्रतापाद्वसुरेतसः ।
अर्जुनो नाम यस्याग्निः शरकुण्डे शयः सदा ॥

पदच्छेदः

तुल्यतुल्य (१.१)
आसीन्नृपस्तस्यआसीत् (√अस् लङ् प्र.पु. एक.)–नृप (१.१)–तद् (६.१)
प्रतापाद्प्रताप (५.१)
वसुरेतसःवसुरेतस् (६.१)
अर्जुनोअर्जुन (१.१)
नामनाम (अव्ययः)
यस्याग्निःयद् (६.१)–अग्नि (१.१)
शरकुण्डेशर–कुण्ड (७.१)
शयःशय (१.१)
सदासदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तुल्य सीन्नृ स्तस्य
प्र ता पाद्वसु रे सः
र्जु नो ना स्या ग्निः
कु ण्डे यः दा