७.३२.१६

बालानां वरनारीणां सहस्रेणाभिसंवृतम् ।
समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥

M N Dutt

He was surrounded by a thousands of beautiful damsels like an elephant by a thousands of she-elephants.

पदच्छेदः

बालानांबाला (६.३)
वरनारीणांवर–नारी (६.३)
सहस्रेणाभिसंवृतम्सहस्र (३.१)–अभिसंवृत (√अभिसम्-वृ + क्त, २.१)
समदानां (अव्ययः)–मद (६.३)
करेणूनांकरेणु (६.३)
सहस्रेणेवसहस्र (३.१)–इव (अव्ययः)
कुञ्जरम्कुञ्जर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बा ला नां ना री णां
स्रे णाभि संवृ तम्
दा नां रे णू नां
स्रे णे कुञ्ज रम्