७.३२.२४

स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ।
नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ॥

M N Dutt

Within a short time the dreadful Raksasa, powerful as the elephant Arjuna, reached the banks of Narmada and espied there Arjuna encircled by females as an elephant surrounded by she-elephants.

पदच्छेदः

तद् (१.१)
तत्रतत्र (अव्ययः)
स्त्रीपरिवृतंस्त्री–परिवृत (√परि-वृ + क्त, २.१)
वाशिताभिर्वाशित (√वाश् + क्त, ३.३)
इवइव (अव्ययः)
द्विपम्द्विप (२.१)
नरेन्द्रंनरेन्द्र (२.१)
पश्यतेपश्यते (√पश् लट् प्र.पु. एक.)
राजाराजन् (१.१)
राक्षसानांराक्षस (६.३)
तदार्जुनम्तदा (अव्ययः)–अर्जुन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्र स्त्रीरिवृ तं
वाशि ताभिरिद्वि पम्
रे न्द्रंश्य ते रा जा
राक्ष सा नां दार्जु नम्