७.३२.४

जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।
रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः ॥

M N Dutt

In order to measure the strength of his thousand arms the King of Haihayas obstructed the course of Narmadă.

पदच्छेदः

जिज्ञासुःजिज्ञासु (१.१)
तद् (१.१)
तुतु (अव्ययः)
बाहूनांबाहु (६.३)
सहस्रस्योत्तमंसहस्र (६.१)–उत्तम (२.१)
बलम्बल (२.१)
रुरोधरुरोध (√रुध् लिट् प्र.पु. एक.)
नर्मदावेगंनर्मदा–वेग (२.१)
बाहुभिःबाहु (३.३)
तद् (१.१)
तदार्जुनःतदा (अव्ययः)–अर्जुन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

जि ज्ञा सुःतु बा हू नां
स्र स्योत्त मं लम्
रु रोर्म दा वे गं
बाहु भिः दार्जु नः