७.३२.४२

ततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः ।
प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ॥

M N Dutt

And throwing down off his hand the iron mace, he, in anger, began to roar, like Yama.

पदच्छेदः

ततोततस् (अव्ययः)
ऽस्यइदम् (६.१)
मुसलंमुसल (२.१)
घोरंघोर (२.१)
लोहबद्धंलोह–बद्ध (√बन्ध् + क्त, २.१)
मदोद्धतःमद–उद्धत (√उत्-हन् + क्त, १.१)
प्रहस्तःप्रहस्त (१.१)
प्रेषयन्प्रेषयत् (√प्र-इषय् + शतृ, १.१)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
ररासररास (√रस् लिट् प्र.पु. एक.)
(अव्ययः)
यथाम्बुदःयथा (अव्ययः)–अम्बुद (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोऽस्यमु लं घो रं
लो द्धं दोद्ध तः
प्र स्तः प्रे न्क्रु द्धो
रा थाम्बु दः