७.३२.४८

अपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते ।
रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥

M N Dutt

All the councillors having thus fled away and Prahasta being slain, Rāvaņa speedily proceeded towards Arjuna, the foremost of kings.

पदच्छेदः

अपक्रान्तेष्वमात्येषुअपक्रान्त (√अप-क्रम् + क्त, ७.३)–अमात्य (७.३)
प्रहस्तेप्रहस्त (७.१)
(अव्ययः)
निपातितेनिपातित (√नि-पातय् + क्त, ७.१)
रावणोरावण (१.१)
ऽभ्यद्रवत्अभ्यद्रवत् (√अभि-द्रु लङ् प्र.पु. एक.)
तूर्णम्तूर्णम् (अव्ययः)
अर्जुनंअर्जुन (२.१)
नृपसत्तमम्नृप–सत्तम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्रा न्तेष्व मा त्येषु
प्र स्तेनि पाति ते
रा णो ऽभ्यद्र त्तूर्ण
र्जु नंनृत्त मम्