७.३२.७१

राक्षसांस्त्रासयित्वा तु कार्तवीर्यार्जुनस्तदा ।
रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥

पदच्छेदः

राक्षसांस्त्रासयित्वाराक्षस (२.३)–त्रासयित्वा (√त्रासय् + क्त्वा)
तुतु (अव्ययः)
कार्तवीर्यार्जुनस्तदाकार्तवीर्य–अर्जुन (१.१)–तदा (अव्ययः)
रावणंरावण (२.१)
गृह्यगृह्य (√ग्रह् + क्त्वा)
नगरंनगर (२.१)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
सुहृद्वृतःसुहृद्–वृत (√वृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राक्ष सां स्त्रा यि त्वातु
कार्त वी र्यार्जुस्त दा
रा णं गृह्य रं
प्रवि वेसु हृद्वृ तः