७.३३.२१

एवं स रावणः प्राप्तः कार्तवीर्यात्तु धर्षणात् ।
पुलस्त्यवचनाच्चापि पुनर्मोक्षमवाप्तवान् ॥

M N Dutt

O Rāma, in this wise, the highly powerful Ravana was defeated by Arjuna and released by Pulastya.

पदच्छेदः

एवंएवम् (अव्ययः)
तद् (१.१)
रावणःरावण (१.१)
प्राप्तःप्राप्त (√प्र-आप् + क्त, १.१)
कार्तवीर्यात्कार्तवीर्य (५.१)
तुतु (अव्ययः)
धर्षणात्धर्षण (५.१)
पुलस्त्यवचनाच्चापिपुलस्त्य–वचन (५.१)–च (अव्ययः)–अपि (अव्ययः)
पुनर्पुनर् (अव्ययः)
मोक्षम्मोक्ष (२.१)
अवाप्तवान्अवाप्तवत् (√अव-आप् + क्तवतु, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं रा णः प्रा प्तः
कार्त वी र्यात्तुर्ष णात्
पुस्त्य ना च्चापि
पु र्मोक्ष वाप्त वान्