७.३४.१

अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ।
चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ॥

M N Dutt

Released by Arjuna, and yet not conceiving any shame, Rāvana, the king of Räkşasas again began to transverse the earth.

पदच्छेदः

अर्जुनेनअर्जुन (३.१)
विमुक्तस्तुविमुक्त (√वि-मुच् + क्त, १.१)–तु (अव्ययः)
रावणोरावण (१.१)
राक्षसाधिपःराक्षस–अधिप (१.१)
चचारचचार (√चर् लिट् प्र.पु. एक.)
पृथिवींपृथिवी (२.१)
सर्वाम्सर्व (२.१)
अनिर्विण्णस्तथाअनिर्विण्ण (१.१)–तथा (अव्ययः)
कृतःकृत (√कृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्जु नेवि मु क्तस्तु
रा णो राक्ष साधि पः
चापृथि वीं र्वा
नि र्वि ण्णस्त थाकृ तः