७.३४.१६

द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम् ।
लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ॥

M N Dutt

Everyone will behold the enemy Rāvana, under my arm pit as a serpent possessed by Garuda, with his thighs, arms and clothes loosened.

पदच्छेदः

द्रक्ष्यन्त्यरिंद्रक्ष्यन्ति (√दृश् लृट् प्र.पु. बहु.)–अरि (२.१)
ममाङ्कस्थंमद् (६.१)–अङ्क–स्थ (२.१)
स्रंसितोरुकराम्बरम्स्रंसित (√स्रंसय् + क्त)–ऊरु–कर–अम्बर (२.१)
लम्बमानंलम्बमान (√लम्ब् + शानच्, २.१)
दशग्रीवंदशग्रीव (२.१)
गरुडस्येवगरुड (६.१)–इव (अव्ययः)
पन्नगम्पन्नग (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्र क्ष्यन्त्य रिं मा ङ्क स्थं
स्रंसि तोरु राम्ब रम्
म्ब मा नं ग्री वं
रु स्येन्न गम्