७.३४.१९

हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम् ।
पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः ॥

M N Dutt

Vāli was seated with his back (towards Rāvaņa); still from his footsteps he perceived that he had come within the grasp of Råvaņa's army and he at once caught hold of him like to Garuda holding a serpent.

पदच्छेदः

हस्तग्राह्यंहस्त–ग्राह्य (√ग्रह् + कृत्, २.१)
तुतु (अव्ययः)
तंतद् (२.१)
मत्वामत्वा (√मन् + क्त्वा)
पादशब्देनपाद–शब्द (३.१)
रावणम्रावण (२.१)
पराङ्मुखोपराङ्मुख (१.१)
ऽपिअपि (अव्ययः)
जग्राहजग्राह (√ग्रह् लिट् प्र.पु. एक.)
वालीवालिन् (१.१)
सर्पम्सर्प (२.१)
इवाण्डजःइव (अव्ययः)–अण्डज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्त ग्रा ह्यंतु तं त्वा
पा ब्दे रा णम्
राङ्मु खोऽपि ग्रा
वा लीर्पमि वाण्ड जः