७.३४.२०

ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ।
खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥

M N Dutt

Getting hold of Rāvana, the lord of Rākşasas, desirous of catching him, (Vāli) and placing him under his arm-pit Vāli vehemently rose high up in the welkin.

पदच्छेदः

ग्रहीतुकामंग्रहीतु–काम (२.१)
तंतद् (२.१)
गृह्यगृह्य (√ग्रह् + क्त्वा)
रक्षसाम्रक्षस् (६.३)
ईश्वरंईश्वर (२.१)
हरिःहरि (१.१)
खम् (२.१)
उत्पपातउत्पपात (√उत्-पत् लिट् प्र.पु. एक.)
वेगेनवेग (३.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
कक्षावलम्बिनम्कक्ष–अवलम्बिन् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ग्र हीतु का मं तं गृह्य
क्ष सा मीश्व रं रिः
मुत्प पा वे गे
कृ त्वा क्षाम्बि नम्