७.३४.२३

अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः ।
अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ॥

M N Dutt

They thus following him, Vali, appeared in the sky like the sun in the midst of clouds.

पदच्छेदः

अन्वीयमानस्तैर्अन्वीयमान (√अनु-इ + शानच्, १.१)–तद् (३.३)
वालीवालिन् (१.१)
भ्राजतेभ्राजते (√भ्राज् लट् प्र.पु. एक.)
ऽम्बरमध्यगःअम्बर–मध्य–ग (१.१)
अन्वीयमानोअन्वीयमान (√अनु-इ + शानच्, १.१)
मेघौघैर्मेघ–ओघ (३.३)
अम्बरस्थअम्बर–स्थ (१.१)
इवांशुमान्इव (अव्ययः)–अंशुमन्त् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्वी मा स्तै र्वा ली
भ्रा तेऽम्बध्य गः
न्वी मा नो मे घौ घै
म्बस्थ वांशु मान्