७.३४.३२

रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ।
कुतस्त्वमिति चोवाच प्रहसन्रावणं प्रति ॥

M N Dutt

Having got out Răvaņa from his arm-pit, the foremost of monkeys, laughing again and again said:-"Where are you coming?"

पदच्छेदः

रावणंरावण (२.१)
तुतु (अव्ययः)
मुमोचाथमुमोच (√मुच् लिट् प्र.पु. एक.)–अथ (अव्ययः)
स्वकक्षात्स्व–कक्ष (५.१)
कपिसत्तमःकपि–सत्तम (१.१)
कुतस्त्वम्कुतस् (अव्ययः)–त्वद् (१.१)
इतिइति (अव्ययः)
चोवाच (अव्ययः)–उवाच (√वच् लिट् प्र.पु. एक.)
प्रहसन्प्रहसत् (√प्र-हस् + शतृ, १.१)
रावणंरावण (२.१)
प्रतिप्रति (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा णंतुमु मो चा
स्व क्षात्कपित्त मः
कुस्त्वमिति चो वा
प्र न्रा णंप्रति