७.३४.३४

वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणः ।
युद्धेप्सुरहं संप्राप्तः स चाद्यासादितस्त्वया ॥

M N Dutt

O king of monkeys, resembling Mahendra, I am Rāvaņa, the king of Rākşasas; I came here to fight: but I have been defeated by you. Alas!

पदच्छेदः

वानरेन्द्रवानर–इन्द्र (८.१)
महेन्द्राभमहत्–इन्द्र–आभ (८.१)
राक्षसेन्द्रोराक्षस–इन्द्र (१.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
रावणःरावण (१.१)
युद्धेप्सुर्युद्ध–ईप्सु (१.१)
अहंमद् (१.१)
सम्प्राप्तःसम्प्राप्त (√सम्प्र-आप् + क्त, १.१)
तद् (१.१)
चाद्यासादितस्त्वया (अव्ययः)–अद्य (अव्ययः)–आसादित (√आ-सादय् + क्त, १.१)–त्वद् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा रेन्द्र हे न्द्रा
राक्ष से न्द्रोऽस्मि रा णः
यु द्धेप्सु हं सं प्रा प्तः
चा द्या सादिस्त्व या