७.३४.३८

सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुंगव ।
त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ॥

M N Dutt

Your prowess has been sufficiently displayed. But bow I wish, O king of monkeys, to make friends with you for ever before fire.

पदच्छेदः

सोतद् (१.१)
ऽहंमद् (१.१)
दृष्टबलस्तुभ्यम्दृष्ट (√दृश् + क्त)–बल (१.१)–त्वद् (४.१)
इच्छामिइच्छामि (√इष् लट् उ.पु. )
हरिपुंगवहरि–पुंगव (८.१)
त्वयात्वद् (३.१)
सहसह (अव्ययः)
चिरंचिर (२.१)
सख्यंसख्य (२.१)
सुस्निग्धंसु (अव्ययः)–स्निग्ध (२.१)
पावकाग्रतःपावक–अग्रतस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सो ऽहं दृष्ट स्तुभ्य
मि च्छामिरि पुं
त्व याचि रं ख्यं
सु स्नि ग्धं पा काग्र तः