७.३४.४१

अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ ।
किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ॥

M N Dutt

Thereupon holding each other by the arms they entered the city of Kiskindha like to two lions, entering delightedly a cave.

पदच्छेदः

अन्योन्यंअन्योन्य (२.१)
लम्बितकरौलम्बित (√लम्ब् + क्त)–कर (१.२)
ततस्तौततस् (अव्ययः)–तद् (१.२)
हरिराक्षसौहरि–राक्षस (१.२)
किष्किन्धांकिष्किन्धा (२.१)
विशतुर्विशतुः (√विश् लिट् प्र.पु. द्वि.)
हृष्टौहृष्ट (√हृष् + क्त, १.२)
सिंहौसिंह (१.२)
गिरिगुहाम्गिरि–गुहा (२.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्यो न्यंम्बि रौ
स्तौरि राक्ष सौ
कि ष्कि न्धांवि तु र्हृ ष्टौ
सिं हौगिरिगु हामि