७.३४.५

राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत् ।
नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः ॥

M N Dutt

O lord of Rākşasas, he is not present here, who shall be able to withstand you. What monkey else is capable of standing before you?

पदच्छेदः

राक्षसेन्द्रराक्षस–इन्द्र (८.१)
गतोगत (√गम् + क्त, १.१)
वालीवालिन् (१.१)
यस्तेयद् (१.१)–त्वद् (४.१)
प्रतिबलोप्रतिबल (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
नान्यः (अव्ययः)–अन्य (१.१)
प्रमुखतःप्रमुखतस् (अव्ययः)
स्थातुंस्थातुम् (√स्था + तुमुन्)
तवत्वद् (६.१)
शक्तःशक्त (√शक् + क्त, १.१)
प्लवंगमःप्लवंगम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राक्ष सेन्द्र तो वा ली
स्तेप्रति लो वेत्
ना न्यःप्रमु तः स्था तुं
क्तःप्ल वं मः