७.३५.१०

हनूमान्यदि मे न स्याद्वानराधिपतेः सखा ।
प्रवृत्तमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥

M N Dutt

What more, had not Hanumăn, the friend of the king of monkeys-Sugrīva, been in my company who could have brought Sītā intelligence?

पदच्छेदः

हनूमान्हनुमन्त् (१.१)
यदियदि (अव्ययः)
मेमद् (६.१)
(अव्ययः)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
वानराधिपतेःवानर–अधिपति (६.१)
सखासखि (१.१)
प्रवृत्तम्प्रवृत्त (√प्र-वृत् + क्त, २.१)
अपिअपि (अव्ययः)
को (१.१)
वेत्तुंवेत्तुम् (√विद् + तुमुन्)
जानक्याःजानकी (६.१)
शक्तिमान्शक्तिमत् (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नू मान्यदि मे स्या
द्वा राधि तेः खा
प्र वृत्तपि को वे त्तुं
जा क्याःक्ति मान्भ वेत्